|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.61. अध्यायः 061
Mahabharata - Udyoga Parva - Chapter Topics
दुर्योधनेन सहेतुकं पाण्डवानां देवैः साहाय्यकरणपक्षप्रतिक्षेपः ॥ 1 ॥ तथा जलस्तम्भनादिस्वसामर्थ्यभिधानपूर्वकं स्वेन पाण्डवपराजयकरणाभिधानम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-61-0(34128)
वैशम्पायन उवाच। 5-61-0x(3580)
पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः।
आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ॥ 5-61-1(34129)
अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान्।
मन्यते तद्भयं व्येतु भवतो राजसत्तम ॥ 5-61-2(34130)
अकामद्वेषसंयोगाल्लोभद्रोहाच्च भारत ।
उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ॥ 5-61-3(34131)
इति द्वैपायेनो व्यासो नारदश्च महातपाः ।
जामदग्न्यश्च रामो नः कथामकथयत्पुरा ॥ 5-61-4(34132)
नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन ।
कामात्क्रोधात्तथा लोभाद्द्वेषाच्च भरतर्षभ ॥ 5-61-5(34133)
यदा ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि।
कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ॥ 5-61-6(34134)
तस्मान्न भवता चिन्ता कार्यैषा स्यात्कथंचन ।
दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ॥ 5-61-7(34135)
अथ चेत्कामसंयोगाद्द्वेषो लोभश्च लक्ष्यते।
देवेषु दैवप्रामाण्यान्नैषां तद्विक्रमिष्यति ॥ 5-61-8(34136)
मयाऽभिमन्त्रतः शश्वञ्जातवेदाः प्रशाम्यति।
दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ॥ 5-61-9(34137)
यद्वा परमकं तेजो येन युक्ता दिवौकसः।
ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ॥ 5-61-10(34138)
विदीर्यमाणां वसुधां गिरीणां शिखराणि च।
लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ॥ 5-61-11(34139)
चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च।
विनाशाय समुत्पन्नमहं घोरं महास्वनम् ॥ 5-61-12(34140)
अश्मवर्षं च वायुं च शमयामीह नित्यशः ।
जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ॥ 5-61-13(34141)
स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः।
देवासुराणां भावानामहमेकः प्रवर्तिता ॥ 5-61-14(34142)
अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् ।
तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ॥ 5-61-15(34143)
भयानकानि विषये व्यालादीनि न सन्ति मे ।
मन्त्रगुप्तानि भूतानि न हिंसन्ति यंकराः ॥ 5-61-16(34144)
निकामवर्षी पर्जन्यो राजन्विषयवासिनाम्।
धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ॥ 5-61-17(34145)
अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा।
धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ॥ 5-61-18(34146)
यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमञ्जसा।
न स्म त्रयोदश समाः पार्था दुःखभवाप्नुयुः ॥ 5-61-19(34147)
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः।
शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ॥ 5-61-20(34148)
दयभिध्याम्यहं शश्वच्छुभं वा यदि वाऽशुभम् ।
नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ॥ 5-61-21(34149)
भविष्यतीदमिति वा यद्ब्रवीमि परन्तप ।
नान्यथा भूतपूर्वं च सत्यवागिति मां विदुः ॥ 5-61-22(34150)
लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् ।
आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ॥ 5-61-23(34151)
न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन ।
असदाचरितं ह्येतद्यदात्मानं प्रशंसति ॥ 5-61-24(34152)
पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह ।
सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ॥ 5-61-25(34153)
सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः ।
तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ॥ 5-61-26(34154)
परा बुद्धिः परं तेजो वीर्यं च परमं मम।
परा विद्या परो योगो मम तेभ्यो विशिष्यते॥ 5-61-27(34155)
पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा।
अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ॥ 5-61-28(34156)
इत्युक्ते सञ्जयं भूयः पर्यपृच्छत भारत ।
ज्ञात्वा युयुत्सोः कार्याणि प्राप्तकालमरिन्दमः ॥ ॥ 5-61-29(34157)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि एकषष्टितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-61-3 अकामेति कामद्वेषयोरसंयोगात्। लोभद्रोहात् लोभे द्रोहकरणात्, लोभत्यागादित्यर्थः ॥ 5-61-7 एते देवाः दैवेषु भावेषु शमदमादिषु शश्वदपेक्षका उपक्षेमाणः नत्वासुरेषु कामक्रोधादिषु ॥ 5-61-8 कामादिमता कृतमपि निष्फलं भविष्यतीत्यर्थः ॥ 5-61-29 अभिध्यामि चिन्तयामि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|